[Advaita-l] Atma vishaya pratyaya AKA BrahmAkAra vRtti - in the Prasthana Traya Bhashya

V Subrahmanian v.subrahmanian at gmail.com
Fri Feb 7 00:02:45 EST 2025


The following instances are taken from the Prasthana traya Bhashya where
Shankara calls the liberating knowledge as a 'pratyaya' (a vRtti, a
transformation of the mind/intellect), a time/moment, that destroys
ignorance.  I am not giving the translation as they can be obtained from
Swami Gambhirananda or any other standard book:


बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र १० - भाष्यम्
Brihadaranyaka Upanishad bhashya 1.4.10 (Aham Brahma asmi)

………तु पूर्व इति । न, प्रथमेनानैकान्तिकत्वात् — यदि हि प्रथम आत्मविषयः
प्रत्ययोऽविद्यां न निवर्तयति, तथा अन्त्योऽपि, तुल्यविषयत्वात् । एवं तर्हि………

बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र १० - भाष्यम्
 Same as above


………; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल एव
रूपाभिव्यक्तिः, एवमात्मविषयं विज्ञानं यत्कालम् , तत्काल एव
तद्विषयाज्ञानतिरोभावः स्यात् ; अतो ब्रह्मविद्यायां सत्याम्
अविद्याकार्यानुपपत्तेः, प्रदीप इव तमःकार्यस्य, केन कस्य विघ्नं
कुर्युर्देवाः — यत्र आत्मत्वमेव देवानां ब्रह्मविदः ।

बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र ७ - भाष्यम्
Br.Up.Bh. 1.4.7

………प्रसज्येत । वाक्यजनितात्मज्ञानस्मृतिसन्ततेः
श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत् , न ; अर्थप्राप्तत्वात् —
यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव
तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते ;
आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भव

बृहदारण्यकोपनिषद्भाष्यम्प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र ७ - भाष्यम्
Same as above

………योऽयं विज्ञानमयः’ (बृ. उ. ४ । ३ । ७) इत्येवमाद्यात्मप्रतिपादनपराभिः
श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् ; तत्रात्मस्वरूपविज्ञानेनैव
तद्विषयानात्माभिमानबुद्धिः कारकादिक्रियाफ

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ६६ - भाष्यम्  Bh.Gita Bhashyam
18.66

………अविद्यायाः निवर्तकम् ‘अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः ; न
मत्तोऽन्योऽस्ति कश्चित्’ इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम् ,
कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात् । तु -………

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ५५ - भाष्यम्   Bh.Gita Bh. 18.55
………। न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा
समानमार्गत्वं सम्भवति । प्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशश्च
ज्ञाननिष्ठा ; सा च प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते ।

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक ३७ - भाष्यम्  Bh.Gita Bh. 18.37

………आत्मबुद्धेः प्रसादः नैर्मल्यं सलिलस्य इव स्वच्छता, ततः जातं
आत्मबुद्धिप्रसादजम् । आत्मविषया वा आत्मावलम्बना वा बुद्धिः आत्मबुद्धिः,
तत्प्रसादप्रकर्षाद्वा जातमित्येतत् । तस्मात्………

श्रीमद्भगवद्गीताभाष्यम्अष्टादशोऽध्यायःश्लोक २० - भाष्यम्  Bh. Gita Bh. 18.20

………विभक्तं तत् आत्मवस्तु, व्योमवत् निरन्तरमित्यर्थः ; तत् ज्ञानं साक्षात्
सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकं विद्धि इति ॥ २० ॥ ………

श्रीमद्भगवद्गीताभाष्यम्द्वितीयोऽध्यायःश्लोक ११ - भाष्यम्    Bh.Gi.Bh.2.11

………, अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा
आत्मविषया बुद्धिः येषां ते हि पण्डिताः, ‘पाण्डित्यं निर्विद्य’ (बृ. उ.………


More information about the Advaita-l mailing list