[Advaita-l] [advaitin] BrihadAraNyaka 4.3.19 and Aitareya 1.3.12
Sudhanshu Shekhar
sudhanshu.iitk at gmail.com
Wed Apr 9 04:43:46 EDT 2025
Namaste.
SiddhAnta Lesha Sangraha posits eka-jIva-vAda as classified in several
ways. First one is eka-sharIra-eka-jIva-vAda. Second is
aneka-sharIra-eka-jIva-vAda. And the third version is a sub-classification
of the second one.
*From BAlabOdhinI, page 1058-1059, it is clear that the view in accordance
with VivaraNa is that of eka-sharIra-eka-jIva-vAda*.
SLS says - अन्ये तु - *अस्मिन्नेकशरीरैकजीववादे मनःप्रत्ययमलभमानाः *‘अधिकं
तु भेदनिर्देशात्’ (ब्र.सू. २ । १ । २२) ‘लोकवत्तु लीलाकैवल्यम्’ (ब्र.सू. २ ।
१ । ३३) इत्यादिसूत्रैः ‘जीवाधिक ईश्वर एव जगतः स्रष्टा, न जीवः, तस्य
आप्तकामत्वेन प्रयोजनाभावेऽपि केवलं लीलाजगतः सृष्टिः’ इत्यादि प्रतिपादयद्भिः
विरोधं च मन्यमानाः - हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः, अन्ये तु
तत्प्रतिबिम्बभूताः चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः जीवाभासाः
संसारादिभाजः - इति सविशोषानेकशरीरैकजीववादमातिष्ठन्ते ।
BAlabOdhinI says on page 1059 - आचार्येण (by Advaita-Siddhi-kAra) पुनः
*विवरणप्रदर्शितप्रकारात्
प्रकारान्तरमभ्युपगम्य* पूर्वपक्षिशङ्कायाः परिहारमाह – समष्ट्यभिमानिनो
मुख्यजीवस्य असुप्तत्वाद् एकस्मिन् जीवे सुप्ते न जगदप्रतीत्यापत्तिः ।
मुख्यामुख्य-जीवकल्पनं पूर्वपक्षी शंका-परिहार-सौकर्याय । अयमपि पक्षः
शास्त्रे निर्दिष्टः । *विवरण-प्रदर्शिते एकजीववादे मनः प्रत्ययमलभमाना*
केचिदाचार्याः एवं कल्पयन्ति - हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः,
अन्ये तु तत्प्रतिबिम्बभूताः चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः
जीवाभासाः संसारादिभाजः - इति
The relevant portion from VivaraNa is in ninth varNaka - *स्वप्नादिवच्च
तत्त्वज्ञानेन सर्वोपाधिविनिर्मोक्षश्च युज्यते*; वामदेवादिमुक्त्येदानीं
संसारानुपलब्धिः स्यादिति चेत्, एकैकमुक्तावप्यनन्तैरेव युगैरनन्तानां जीवानां
मुक्तत्वात्तुल्येदानीं संसारानुपलब्धिः। इदानीं संसारदर्शनं तु परस्यापि
तुल्यम्। अनुपपत्तिश्चावयोः समाना। अतो निरुपाधिकचैतन्ये त्वयि ब्रह्मणि
प्रत्यक्षे बन्धावभासे सोपाधिकचैतन्येषु तव मुक्ततावभासो विभ्रमः।
तद्विषयश्रुत्यादीनां प्रत्यक्षाविरुद्धतयाऽर्थवादत्वाद्
निरुपाधिकचैतन्यप्रतिभासे त्वयि सोपाधिकचैतन्यभेदानां कल्पितत्वात् कस्यैकस्य
बन्ध-मोक्षाविति तव तावत्संदेहो न जायते; सोपाधिकचैतन्येषु
मुक्तताभ्रमात्, *तद्वचनानां
चार्थवादत्वात्*। एवं प्रत्येकमात्मनो न संदेहः।
*These references make it clear that the eka-jIva-vAda in accordance with
VivaraNa is that of eka-sharIra-eka-jIva-vAda*. And its description is as
follows - एको जीवः । तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणीव
निर्जीवानि । तदज्ञानकल्पितं सर्वं जगत् । तस्य स्वप्नदर्शनवद्यावदविद्यं
सर्वो व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात् ।
शुकमुक्त्यादिकमपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च
सम्भावितसकलशङ्कापङ्कप्रक्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम् − इति ।
(SiddhAnta Lesha Sangraha)
Regards.
Sudhanshu Shekhar.
More information about the Advaita-l mailing list