[Advaita-l] About the meaning of 'Brahman' - Brahma sutra Bhashya and Ratnaprabha

V Subrahmanian v.subrahmanian at gmail.com
Fri Jun 26 02:47:05 EDT 2026


One can get the gist by skipping the Sanskrit part.

In the Bhashya to the very first sutra 'athato brahmajijnāsā,' Shankara
explains what Brahman is:

तत्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धं न
जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति । उच्यते — अस्ति
तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् ।
ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते,
बृंहतेर्धातोरर्थानुगमात् । सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वो ह्यात्मास्तित्वं प्रत्येति, न ‘नाहमस्मि’ इति । यदि हि
नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकः ‘नाहमस्मि’ इति प्रतीयात् ।
आत्मा च ब्रह्म ।

Translation by Swami Gambhirananda:

  Opponent: Is that Brahman, again, familiar or unfamiliar? If It be
familiar, It need not be deliberated on for the sake of knowledge. Again,
if It be unfamiliar, It cannot be deliberated on.

  The Vedantin's answer is: Brahman exists as a well-known entity-eternal,
pure, intelligent, free by nature, and all-knowing and all-powerful. From
the very derivation of the word Brahman, the ideas of eternality, purity,

The gloss Ratnaprabha explains:

प्रसिद्धं तावदित्यर्थः । अस्तित्वस्याप्रकृतत्वेनास्तिपदस्य
प्रसिद्धिपरत्वात् ।

ननु केन मानेन ब्रह्मणः प्रसिद्धिः । न च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति
श्रुत्या सेति वाच्यम् । ब्रह्मपदस्य लोके सङ्गतिग्रहाभावेन
तद्घटितवाक्यस्याबोधकत्वादित्याशङ्क्य ब्रह्मपदव्युत्पत्त्या प्रथमं तस्य
निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह -

ब्रह्मशब्दस्य हीति ।

अस्यार्थः श्रुतौ सूत्रे च ब्रह्मपदस्य प्रयोगान्यथानुपपत्त्या
कश्चिदर्थोऽस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थकशब्दप्रयोगादर्शनात् । स
चार्थो महत्वरूप इति व्याकरणान्निश्चीयते, ‘बृहि वृद्धौ’ इति स्मरणात् । सा च
वृद्धिर्निरवधिकमहत्वमिति सङ्कोचकाभावात् , श्रुतावनन्तपदेन सह प्रयोगाच्च
ज्ञायते । निरवधिकमहत्वं चान्तवत्त्वादिदोषवत्त्वे सर्वज्ञत्वादिगुणहीनत्वे च
न सम्भवति, लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः । अतो बृंहणाद्ब्रह्मेति
व्युत्पत्त्या देशकालवस्तुतः परिच्छेदाभावरूपं नित्यत्वं प्रतीयते ।
अविद्यादिदोषशून्यत्वं शुद्धत्वम् । जाड्यराहित्यं बुद्धत्वम् । बन्धकालेऽपि
स्वतोबन्धाभावो मुक्तत्वं च प्रतीयते । एवं सकलदोषशून्यं निर्गुणं
प्रसिद्धम् । तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धम् । ज्ञेयस्य
कार्यस्य वा परिशेषेऽल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च
लाभादिति ।


The gist is:

A concise summary of the entire passage would be:

*“The word ‘Brahman’, by its etymology and scriptural usage, already
denotes the infinitely great reality, free from all limitations and defects
and endowed with supreme excellence; hence both nirguṇa and saguṇa Brahman
are preliminarily established even before the detailed teaching of the
Upaniṣads.”*

'Brahman' denotes both Saguna and Nirguna.  However, Shankara also
clarified that in the context of Brahman Realization, the Upanishads/Sutras
refer to the latter.

उभयलिङ्गाधिकरणम्  Brahma sutras: 3.2.11-21

कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु,
अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् इत्यत उत्तरं पठति —

अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
रूपाद्याकाररहितमेव ब्रह्म अवधारयितव्यम् , न रूपादिमत् । कस्मात् ?
तत्प्रधानत्वात्; ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८)
<https://advaitasharada.sringeri.net/display/bhashya/Brha/devanagari?page=3&id=BR_C03_S08_V08&hl=%E0%A4%85%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A5%82%E0%A4%B2%E0%A4%AE%E0%A4%A8%E0%A4%A3%E0%A5%8D%E0%A4%B5%E0%A4%B9%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%A6%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%98%E0%A4%AE%E0%A5%8D>
 ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५)
<https://advaitasharada.sringeri.net/display/bhashya/Kathaka/devanagari?page=1&id=Ka_C01_S03_V15&hl=%E0%A4%85%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%AE%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%AE%E0%A5%8D>
, (मुक्ति. उ. २ । ७२), ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा
तद्ब्रह्म’ (छा. उ. ८ । १४ । १)
<https://advaitasharada.sringeri.net/display/bhashya/Chandogya/devanagari?page=8&id=Ch_C08_S14_V01&hl=%E0%A4%86%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A5%8B%20%E0%A4%B5%E0%A5%88%20%E0%A4%A8%E0%A4%BE%E0%A4%AE%20%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%AF%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE%20%E0%A4%A4%E0%A5%87%20%E0%A4%AF%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%BE%20%E0%A4%A4%E0%A4%A6%E0%A5%8D%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE>
 ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २)
<https://advaitasharada.sringeri.net/display/bhashya/Mundaka/devanagari?page=2&id=MD_C02_S01_V02&hl=%E0%A4%A6%E0%A4%BF%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A5%8B%20%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83%20%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A4%83%20%E0%A4%B8%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8B%20%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%9C%E0%A4%83>
 ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ ।
५ । १९)
<https://advaitasharada.sringeri.net/display/bhashya/Brha/devanagari?page=2&id=BR_C02_S05_V19&hl=%E0%A4%A4%E0%A4%A6%E0%A5%87%E0%A4%A4%E0%A4%A6%E0%A5%8D%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%A8%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%AE%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A4%AF%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%AD%E0%A5%82%E0%A4%83>
 इत्येवमादीनि वाक्यानि, निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि, न
अर्थान्तरप्रधानानि — इत्येतत्प्रतिष्ठापितम् ‘तत्तु समन्वयात्’ (ब्र. सू. १ ।
१ । ४)
<https://advaitasharada.sringeri.net/display/bhashya/BS/devanagari?page=1&id=BS_C01_S01_V04&hl=%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%81%20%E0%A4%B8%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%B5%E0%A4%AF%E0%A4%BE%E0%A4%A4%E0%A5%8D>
 इत्यत्र । तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म
अवधारयितव्यम् । इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि ।
उपासनाविधिप्रधानानि हि तानि । तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् । सति तु
 विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति — इत्येष विनिगमनायां
हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु *अनाकारमेव ब्रह्म अवधार्यते, न
पुनर्विपरीतमिति ॥
१४ ॥*

  Nirguṇa, formless Brahman is the principal teaching of the Upaniṣads;
descriptions of Brahman with form are subordinate aids for meditation.
Hence, when reconciliation is required, the formless conception alone is
taken as the final purport (*tātparya*) of scripture.

Om Tat Sat


More information about the Advaita-l mailing list