[Advaita-l] [advaitin] Brahmakara vritti refuted
Jaishankar Narayanan
jai1971 at gmail.com
Wed Feb 5 01:48:39 EST 2025
Namaste,
Some quotations from PTB for those who want to understand what the shruti
is revealing. It is not for those who do an exact word search using a
search engine or AI.
For vrittivyAtpti and phalavyApti
एवं च सति दृष्टिरेव स्वरूपमस्य अग्न्यौष्ण्यवत् , न काणादानामिव
दृष्टिव्यतिरिक्तः अन्यः चेतनः द्रष्टा ॥ तद्ब्रह्म आत्मानमेव
नित्यदृग्रूपमध्यारोपितानित्यदृष्ट्यादिवर्जितमेव अवेत् विदितवत् । ननु
विप्रतिषिद्धम् — ‘न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति
श्रुतेः — विज्ञातुर्विज्ञानम् । न, एवं विज्ञानान्न विप्रतिषेधः ; एवं
दृष्टेर्द्रष्टेति विज्ञायत एव ; अन्यज्ञानानपेक्षत्वाच्च — न च
द्रष्टुर्नित्यैव दृष्टिरित्येवं विज्ञाते द्रष्टृविषयां
दृष्टिमन्यामाकाङ्क्षते ; निवर्तते हि द्रष्टृविषयदृष्ट्याकाङ्क्षा
तदसम्भवादेव ; न ह्यविद्यमाने विषये आकाङ्क्षा कस्यचिदुपजायते ; न च दृश्या
दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत ; न च
स्वरूपविषयाकाङ्क्षा स्वस्यैव ; तस्मात् अज्ञानाध्यारोपणनिवृत्तिरेव
आत्मानमेवावेदित्युक्तम् , नात्मनो विषयीकरणम् ॥ (बृ. उ. भा. १ । ४ । १० )
evaṃ ca sati dṛṣṭireva svarūpamasya agnyauṣṇyavat , na kāṇādānāmiva
dṛṣṭivyatiriktaḥ anyaḥ cetanaḥ draṣṭā ॥ tadbrahma ātmānameva
nityadṛgrūpamadhyāropitānityadṛṣṭyādivarjitameva avet viditavat । nanu
vipratiṣiddham — ‘na vijñātervijñātāraṃ vijānīyāḥ' (bṛ. u. 3 । 4 । 2) iti
śruteḥ — vijñāturvijñānam । na, evaṃ vijñānānna vipratiṣedhaḥ ; evaṃ
dṛṣṭerdraṣṭeti vijñāyata eva ; anyajñānānapekṣatvācca — na ca
draṣṭurnityaiva dṛṣṭirityevaṃ vijñāte draṣṭṛviṣayāṃ dṛṣṭimanyāmākāṅkṣate ;
nivartate hi draṣṭṛviṣayadṛṣṭyākāṅkṣā tadasambhavādeva ; na hyavidyamāne
viṣaye ākāṅkṣā kasyacidupajāyate ; na ca dṛśyā dṛṣṭirdraṣṭāraṃ
viṣayīkartumutsahate, yatastāmākāṅkṣeta ; na ca svarūpaviṣayākāṅkṣā
svasyaiva ; tasmāt ajñānādhyāropaṇanivṛttireva ātmānamevāvedityuktam ,
nātmano viṣayīkaraṇam ॥ (bṛ. u. bhā. 1 । 4 । 10 )
NididhyAsana
कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता
पारिशेष्यादात्मविज्ञानस्मृतिसन्ततिर्नित्यैवेत्यभिहितम् ? बाढम् —
यद्यप्येवम् , शरीरारम्भकस्य कर्मणो नियतफलत्वात् , सम्यग्ज्ञानप्राप्तावपि
अवश्यंभाविनी प्रवृत्तिर्वाङ्मनःकायानाम् , लब्धवृत्तेः कर्मणो बलीयस्त्वात् —
मुक्तेष्वादिप्रवृत्तिवत् ; तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् ।
तस्मात् त्यागवैराग्यादिसाधनबलावलम्बेन आत्मविज्ञानस्मृतिसन्ततिर्नियन्तव्या
भवति ; न त्वपूर्वा कर्तव्या ; प्राप्तत्वात् — इत्यवोचाम ।
तस्मात्प्राप्तविज्ञानस्मृतिसन्ताननियमविध्यर्थानि ‘विज्ञाय प्रज्ञां कुर्वीत’
(बृ. उ. ४ । ४ । २१) इत्यादिवाक्यानि, अन्यार्थासम्भवात् । (बृ. उ. भा. १ ।
४ । ७)
kathaṃ punarupāsanasya pakṣaprāptiḥ, yāvatā
pāriśeṣyādātmavijñānasmṛtisantatirnityaivetyabhihitam ? bāḍham —
yadyapyevam , śarīrārambhakasya karmaṇo niyataphalatvāt ,
samyagjñānaprāptāvapi avaśyaṃbhāvinī pravṛttirvāṅmanaḥkāyānām ,
labdhavṛtteḥ karmaṇo balīyastvāt — mukteṣvādipravṛttivat ; tena pakṣe
prāptaṃ jñānapravṛttidaurbalyam । tasmāt
tyāgavairāgyādisādhanabalāvalambena ātmavijñānasmṛtisantatirniyantavyā
bhavati ; na tvapūrvā kartavyā ; prāptatvāt — ityavocāma ।
tasmātprāptavijñānasmṛtisantānaniyamavidhyarthāni ‘vijñāya prajñāṃ kurvīta'
(bṛ. u. 4 । 4 । 21) ityādivākyāni, anyārthāsambhavāt । (bṛ. u. bhā. 1 । 4 ।
7)
तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः ;
श्रोतव्यः पूर्वम् आचार्यत आगमतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो
निदिध्यासितव्यः निश्चयेन ध्यातव्यः ; एवं ह्यसौ दृष्टो भवति
श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः ; यदा एकत्वमेतान्युपगतानि, तदा
सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमात्रेण । (बृ. उ.
भा. २ । ४ । ५)
tasmāt ātmā vai are draṣṭavyaḥ darśanārhaḥ, darśanaviṣayamāpādayitavyaḥ ;
śrotavyaḥ pūrvam ācāryata āgamataśca ; paścānmantavyaḥ tarkataḥ ; tato
nididhyāsitavyaḥ niścayena dhyātavyaḥ ; evaṃ hyasau dṛṣṭo bhavati
śravaṇamanananididhyāsanasādhanairnirvartitaiḥ ; yadā
ekatvametānyupagatāni, tadā samyagdarśanaṃ brahmaikatvaviṣayaṃ prasīdati,
na anyathā śravaṇamātreṇa । (bṛ. u. bhā. 2 । 4 । 5)
अथ इदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति तस्य
सूत्रस्थानीयान् श्लोकान् उपदिशति स्म — (भ.गी.भा. ५ । २७ )
atha idānīṃ dhyānayogaṃ samyagdarśanasya antaraṅgaṃ vistareṇa vakṣyāmi iti
tasya sūtrasthānīyān ślokān upadiśati sma — (bha.gī.bhā. 5 । 27 )
Many more reference in Bh. Gita 6th Chapter
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो
निवारितप्रचारं योगसेवया योगानुष्ठानेन, यत्र चैव यस्मिंश्च काले आत्मना
समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन्
उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते (भ.गी.भा. ६ । २० )
yatra yasmin kāle uparamate cittam uparatiṃ gacchati niruddhaṃ sarvato
nivāritapracāraṃ yogasevayā yogānuṣṭhānena, yatra caiva yasmiṃśca kāle
ātmanā samādhipariśuddhena antaḥkaraṇena ātmānaṃ paraṃ caitanyaṃ
jyotiḥsvarūpaṃ paśyan upalabhamānaḥ sve eva ātmani tuṣyati tuṣṭiṃ bhajate
(bha.gī.bhā. 6 । 20 )
with love and prayers,
Jaishankar
More information about the Advaita-l mailing list