[Advaita-l] References to drishTi-srishTi-vAda in Shruti, BhAshya and works of sampradAya-vit-AchAryAs

Sudhanshu Shekhar sudhanshu.iitk at gmail.com
Fri Apr 4 03:56:16 EDT 2025


Hari Om,

A dedicated list in separate e-mail heading is created for noting the
references to drishTi-srishTi-vAda in Shruti, BhAshya and works of
sampradAya-vit-AchAryAs. Corroborating statements of AchAryAs can also be
added.

1. *ChhAndOgya Upanishad 8.5.4 bhAshya*: अत्यल्पमिदमुच्यते । जाग्रद्विषया
अपि मानसप्रत्ययाभिनिर्वृत्ता एव,
सदीक्षाभिनिर्वृत्ततेजोबन्नमयत्वाज्जाग्रद्विषयाणाम्.

*Reference*:  R Krishnamurti Shastri ji writes in page 268 of SLS that
ChhAndogya Upanishad 8.5.4 refers to drishTi-srishTi-VAda. He says
“ब्राह्मलौकिकपदार्थानां स्वरूपविचारावसरे 'अत्यल्पमिदमुच्यते जाग्रद्विषयाऽपि
मानस प्रत्ययाभिनिर्वृत्ता एव' इत्यादि छान्दोग्याष्टमपञ्चमभाष्यमपि श्रुतेः
दृष्टिसृष्टिपरत्वे प्रमाणम् ।”.

2. *BSB 1.3.30 *- स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते — ‘यदा सुप्तः
स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः
सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो
विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति

*Reference*: KaushItakI 3.3 has been held to propound DSV by VidyAraNya
SwamI ji, Anandagiri and RatnaprabhA.

3. *A**itareya Upanishad BhAshya *1.3.12 states - त्रयः स्वप्ना
जाग्रत्स्वप्नसुषुप्त्याख्याः । ननु जागरितं प्रबोधरूपत्वान्न स्वप्नः । नैवम्
; स्वप्न एव । कथम् ? परमार्थस्वात्मप्रबोधाभावात् स्वप्नवदसद्वस्तुदर्शनाच्च ।

4. *BrihadAraNyak BhAshya 4.3.19* says -  ‘न कञ्चन कामम्’ इति
स्वप्नबुद्धान्तयोः अविशेषेण सर्वः कामः प्रतिषिध्यते, ‘कञ्चन’
इत्यविशेषिताभिधानात् ; तथा ‘न कञ्चन स्वप्नम्’ इति — जागरितेऽपि यत् दर्शनम्
, तदपि स्वप्नं मन्यते श्रुतिः, अत आह — न कञ्चन स्वप्नं पश्यतीति ; तथा च
श्रुत्यन्तरम् ‘तस्य त्रय आवसथास्त्रयः स्वप्नाः’ (ऐ. उ. १ । ३ । १२) इति ।

5. *Prashna Upanishad* 4.7 and 4.8- स यथा सोम्य वयांसि वासोवृक्षं
सम्प्रतिष्ठन्त एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ॥

*Reference*: Swami Paramarthananda in his Vichara Sagara book, page 1445,
says that Prashna Upanishad 4.8 propounds DSV.

6. *BrihadAraNyaka Shruti 2.1.20*: स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः
क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे
लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति
प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥

*Reference*: Advaita Siddhi says - दृष्टिसृष्टौ च ‘एवमेवास्मादात्मनः सर्वे
प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मनो
व्युच्चरन्ती'ति श्रुतिः सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपादयन्ती
प्रमाणम् ।

7. *Kaivalya Upanishad* says - स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया
कल्पितजीवलोके । *सुषुप्तिकाले सकले विलीने* तमोऽभिभूतः सुखरूपमेति ॥

8. *anubhUti prakA*sha 1.17 - स्वप्नः स्व-काले एव अस्ति न अन्यदा
सुप्ति-जागरौ। तथा-एव-इति स्वप्न-साम्यात् त्रयः स्वप्ना: उदीरिताः।।

9. *anubhUti prakAsha 8.67* -  दृष्टिसृष्टिमिमां ब्रह्मानुभवी बहुमन्यते ।
स्वप्रबोधात्स्वसंसारो लीयते स्वप्नवद्यतः ॥ ६७ ॥।

10.* an*u*bhUti prakAsha 9.46** -*  अल्पा सा महती वास्तु सदद्वैतं
विबुद्धयते । प्रौढस्य राजगेहस्य द्वारं स्यात्पुरतो महत् ॥ ४६॥

11. *RatnaprabhA 1.3.30* -  स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं
सृष्टिः अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः ।

Learned members are requested to add to it, at their leisure and
convenience.

Regards.
Sudhanshu Shekhar.


More information about the Advaita-l mailing list