[Advaita-l] Two Selves not possible in one body

V Subrahmanian v.subrahmanian at gmail.com
Fri May 10 12:28:41 EDT 2024


Two Selves not possible in one body

For English translation see:

page 121, 122:

https://archive.org/details/BrahmaSutraSankaraBhashyaEnglishTranslationVasudeoMahadeoApte1960/page/n161/mode/2up

ब्रह्मसूत्रभाष्यम् प्रथमोऽध्यायः द्वितीयः पादः सूत्रम् २० -

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥

नेति पूर्वसूत्रादनुवर्तते । शारीरश्च  नान्तर्यामी स्यात् । कस्मात् ? यद्यपि
द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न
कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति । अपि चोभयेऽपि
हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं
पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते — ‘यो विज्ञाने तिष्ठन्’ (बृ.
उ. ३ । ७ । २२) इति काण्वाः । ‘य आत्मनि तिष्ठन्’ इति माध्यन्दिनाः । ‘य
आत्मनि तिष्ठन्’ इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो
विज्ञाने तिष्ठन्’ इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो
हि शारीर इति । *तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् । *

*कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते यश्चायमीश्वरोऽन्तर्यामी,
यश्चायमितरः शारीरः ? का पुनरिहानुपपत्तिः ?* ‘नान्योऽतोऽस्ति द्रष्टा’
इत्यादिश्रुतिवचनं विरुध्येत । अत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं
श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति ।
नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् , न;
नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च । अत्रोच्यते —
अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं
शारीरान्तर्यामिणोर्भेदव्यपदेशः, न पारमार्थिकः । *एको हि प्रत्यगात्मा भवति,
न द्वौ प्रत्यगात्मानौ सम्भवतः ।* एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा
घटाकाशो महाकाश इति । ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च
प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते । तथा च
श्रुतिः — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यविद्याविषये सर्वं
व्यवहारं दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इति
विद्याविषये सर्वं व्यवहारं वारयति ॥ २०


More information about the Advaita-l mailing list