[Advaita-l] advaitasiddhi discussion: प्रत्यक्षस्य उपजीव्यत्वेन प्राबल्यविचारः

V Subrahmanian v.subrahmanian at gmail.com
Sun Nov 2 12:02:52 CST 2014


Dear Sri Anand ji,

I noticed in a couple of places this kind of usage:  तत् तन्
मिथ्याभूतं...Here, in case you have decided not to conjoin words to form a
sandhi, should it not be written as:  तत् तत् मिथ्याभूतम्...?

Like for instance, if I do not want to conjoin, I would write: यत्
रजतम्...and not यद् रजतम्.

Pl. correct me if my understanding is not in order.

warm regards
subrahmanian.v

2014-11-02 23:00 GMT+05:30 Anand Hudli via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> I had some time during the weekend to write a summary of the discussion on
> upjIvyatva (being the basis) of Perception with regards to Inference
> (anumAna) and Verbal Testimony (shabda/Agama pramANa). When I started
> writing on the advaitasiddhi many years ago, I was more inclined to writing
> translations in English. However, today there are a wide variety of
> resources and tools, both online and offline, for learning Sanskrit. It is
> no longer difficult to learn to read and understand Sanskrit. Especially,
> people who have a good grasp of an Indian language that uses a fair amount
> of "tatsama" and "tadbhava" words (words either directly borrowed from
> Sanskrit or of Sanskrit origin, but modified), will find learning Sanskrit
> easier. Many Sanskritists tell us that we should not be reading Sanskrit
> works along with translations in other languages. More significantly,
> Sringeri Shri Bharati Tirtha Svaminah , in one of his Sanskrit speeches,
> recommends that we not settle for translations of Sanskrit treatises.
> Please see: http://tinyurl.com/q4y5wg6
> Especially note the following words of the AchArya:
> बहवो लोकाः "वयं अनुवादग्रन्थान् पठामः, तेभ्य एव वयं सनातनधर्मस्य तत्त्वं
> ज्ञातुं प्रभवामः" इति कथयेयुः। तथापि अनुवादग्रन्थेभ्यः यथावत् तत्त्वं
> अवबोद्धुं नैव शक्यते। तादृशाः सन्ति विषयाः ये भाषान्तरैः अनुवदितुं न
> शक्यन्ते।... अतः यदि कश्चित् धर्मतत्त्वं जिज्ञासते, भारतीयां संस्कृतिं
> अधिजिगमिषति, तेन संस्कृतभाषा अवश्यम् अवगन्तव्या, अभ्यसनीया।
>
> I have presented below the first part of the summary of the advaita-siddhi
> topic, प्रत्यक्षस्य उपजीव्यत्वेन प्राबल्यविचारः, written in simplified
> Sanskrit. For example, I have not followed the rule to form a Sandhi
> between words wherever possible. I have also avoided forming compound words
> in many cases. There are parts of the discussion that do require a basic
> knowledge of nyAya concepts. These may be found in the elementary work on
> nyAya, the tarka-saMgraha or at:
> http://www.advaitasiddhi.org/part3
> http://www.advaitasiddhi.org/part4
>
> I would be grateful if any mistakes are pointed out, so I can correct them
> before publishing this on the advaitasiddhi website.
>
>                            श्रीगुरुभ्यो नमः॥
>
> "सन् घटः" इति प्रत्यक्षज्ञानं घटमिथ्यात्वानुमानस्य बाधकं तदैव भवितुमर्हति
> यदा तस्य प्रत्यक्षज्ञानस्य प्रामाण्यं पूर्वं हि निश्चितं स्यात्। किन्तु
> प्रकृते प्रत्यक्षज्ञानस्य विषयस्य (घटस्य) बाधः "नेह नानास्ति किञ्चन"
> इत्यादिश्रुतिभिः मिथ्यात्वानुमानेन च। अतः "सन् घटः" इति प्रत्यक्षज्ञानस्य
> प्रामाण्यं पूर्वनिश्चितं नास्ति।
>
> अथ द्वैतवादिभिरयम् आक्षेपः प्रस्तूयते - प्रत्यक्षस्य उपजीव्यत्वेन
> प्राबल्यं। किमिदं उपजीव्यत्वम्? अनुमान-आगमयोः सर्वाणां अपेक्षितार्थानां
> ग्राहकं प्रत्यक्षं अपरोक्षात् परोक्षात् वा। "पर्वतो वह्निमान् धूमात्"
> इत्यत्र पर्वतः धूमश्च प्रत्यक्षेण गृह्येते, प्रत्यक्षजन्यज्ञानेनैव वह्नेः
> अनुमानं साधयितुं शक्यते। एवमेव आगमोक्तशब्दाः अपि प्रत्यक्षेण गृह्यन्ते। अतः
> प्रत्यक्षस्य उपजीव्यत्वं अनुमान-आगमयोः उपजीवकत्वं च।
>
> अद्वैतसिद्धिकारैः पूजनीयैः समाधानम् उच्यते - अनुमानं आगमश्च प्रत्यक्षस्य
> यद् रूपं उपजीव्यते तेन रूपेण न विरुध्येते, तद् रूपं न बाध्यते च। किं
> बाध्यते? प्रत्यक्षस्य व्यावहारिकरूपं वयं स्वीकुर्मः, प्रत्यक्षस्य
> पारमार्थिकरूपं निराकुर्मः। अतः यद् रूपं उपजीव्यं तन् न बाध्यते, यद् रूपं
> बाध्यते तन् न उपजीव्यते अनुमानागमाभ्याम्। दृष्टान्तः-  धूमज्ञानस्य
> (प्रत्यक्षस्य) तात्विकरूपं (पारमार्थिकरूपं)  वह्नेरनुमाने कारणेषु न
> अपेक्ष्यते।
>
> अत एवोक्तं खण्डनकारै:- पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ।
>                              हेतुत्वबहिर्भूतसत्त्वासत्त्वकथा वृथा॥ इति।
> अनुमानस्य हेतुः पूर्वावधारितव्याप्तिज्ञानमिति अस्माभिः वेदान्तिभिरपि
> अङ्गीकृतं यथा युष्माभिः नैयायिकैः। हेतुत्वे अनुपयुक्तस्य
> प्रत्यक्षसत्यत्वस्य कथा (वादविवादः) व्यर्था।
>
> किंच यदि केवलं अपेक्षितग्राहकः उपजीव्यः भवितुम् अर्हति बाधकः भवितुम् अर्हति
> च  तर्हि शुक्तौ इदं रजतमिति भ्रमस्य बाधकं नेदं रजतमिति ज्ञानं कथं उदीयात्
> (उत्पद्येत)? तत्र इदं रजतमिति भ्रमः प्रतियोगिनः रजतस्य ग्राहक:। अतः नेदं
> रजतमिति ज्ञानस्य उपजीव्यः इदं रजतमिति भ्रमः। किन्तु इदं रजतमिति भ्रमः नेदं
> रजतमिति ज्ञानेन न बाध्यते यतः उपजीव्यः उपजीवकेन न बाध्यते।
>
> अथ द्वैतवादिभिरुच्यते- नेदं रजतमिति बाधेन प्रतियोगिसमर्पकत्वेन इदं रजतमिति
> ज्ञानं अवश्यम् अपेक्ष्यते, किन्तु इदं रजतमिति ज्ञानस्य प्रामाण्यं
> (यथार्थत्वं) न अपेक्ष्यते। प्रतियोगिज्ञानमात्राद् अभावज्ञानं जायते, न
> प्रतियोगिप्रमाज्ञानात्। अतः इदं रजतमिति ज्ञानस्य पक्षेऽपि तद्विरुद्धविषयकं
> ज्ञानं उदीयात्।
>
> अद्वैतसिद्धिकारैरुच्यते- जगन्मिथ्यात्वविषयेऽपि एवमेव! यद्यद् दृश्यं तत् तन्
> मिथ्याभूतं दृष्टं यथा शुक्तिरजतमिति एतद् अनुमानं प्रत्यक्षज्ञानमात्रात्
> जायते, नहि अत्र प्रत्यक्षज्ञानप्रमात्वस्य अपेक्षा।
>
> द्वैतवादिभिरुच्यते- यस्य ज्ञानस्य प्रामाण्यं स्वरूपसिद्ध्यर्थं
> अपवादनिरासार्थं च यस्य ज्ञानस्य प्रामाण्यं अवलम्बते तस्य ज्ञानस्य उपजीव्यं
> तत् ज्ञानम्। दृष्टान्तः- स्मृतेरनुभवः उपजीव्यः। रजतभ्रमः न उपजीव्यः यतः
> नेदं रजतमिति ज्ञानस्य प्रामाण्यं इदं रजतमिति ज्ञानस्य प्रामाण्यं न
> अवलम्बते।
>
> अद्वैतसिद्धिकारैरुच्यते- इति चेत्, तर्हि व्याप्तिरपि अनुमानस्य उपजीव्यः न
> स्यात् यतः लिङ्गाभासेनापि वह्निमति पक्षे वह्नेः प्रमात्मकं अनुमानं
> उत्पद्यते।  दृष्टान्त - वह्निमति पर्वते नीहारदर्शनात् (न तु धूमदर्शनात्)
> वह्नेः प्रमात्मकं अनुमानं उत्पद्यते।
>
> द्वैतवादिभिरुच्यते- येन विना यस्योत्थानं नास्ति तत् तस्य उपजीव्यमित्येव
> वक्तव्यम्। अवश्यम् रजताभावज्ञानस्य उपजीव्यं शुक्तिरजतज्ञानं, किन्तु तत्र
> उपजीव्यस्य प्राबल्यं नास्ति। उपजीव्यत्वमात्रेण किञ्चित् ज्ञानं न प्राबल्यं
> भवितुम् अर्हति, किन्तु परीक्षिततया। का इयं परीक्षा?
> सजातीयविजातीयसंवादविसंवादाभावरूपा। गौडब्रह्मानन्दीकारान्
> (लघुचन्द्रिकाकारान्) अनुसृत्य विशदीक्रियते- सजातीयस्य ज्ञानान्तरस्य
> विजातीयस्य प्रवृत्त्यादेः अबाधितविषयकत्वेन निश्चितस्य संवादः
> समानविषयकत्वम्, विसंवादाभावः तयोः विरुद्धार्थग्राहित्वस्य अभावः। अर्थात्
> सजातीयप्रमाणानां संवादः विजातीयप्रमाणानां विसंवादाभावः च। शुक्तिरजतभ्रमे
> ज्ञानान्तरस्य समानविषयकत्वं नास्ति, प्रवृत्तेः अबाधितविषयकत्वमपि नास्ति यतः
> पुरोवर्तिनः तद्रजतस्य उत्थापनक्रियायां बाधितो भवति। अतः रजतभ्रमस्य
>  उपजीव्यत्वे सति अपि तद्भ्रमस्य न प्राबल्यम्। प्रकृते प्रत्यक्षस्य
> परीक्षिततया प्राबल्यं अस्त्येव। "सन् घटः" इति ज्ञात्वा प्रवृत्तपुरुषस्य
> घटानयनादौ प्रवृत्त्या घटलाभो भवति, तत्प्रत्यक्षज्ञानं
> दूरत्वादिदोषनिर्मुक्तमपि। तस्मात् प्रत्यक्षस्य
> सजातीयविजातीयसंवादविसंवादाभावौ सिद्धौ, परीक्षितता अपि सिद्धा।
>
> अद्वैतसिद्धिकारैरुच्यते - परीक्षा नाम प्रवृत्त्या संवादः विसंवादाभावः
> दोषाभावश्च। अनया परीक्षया स्वसमानदेशे स्वसमानकाले स्थितस्य विषयस्यैव
> अबाध्यत्वरूपं प्रामाण्यं साध्यते, यथा हेतुना धूमेन स्वसमानदेशे स्वसमानकाले
> एव वह्निः साध्यते। "सन् घटः" इति प्रत्यक्षज्ञानस्य विषयः (घटः) परीक्षायाः
> देशे काले च अबाधितः, किन्तु देशान्तरे कालान्तरे वा विषयस्य (घटस्य)
> अबाध्यत्वं न साध्यते। तस्मात्, परीक्षितप्रमाविषये केवलं व्यवहारकाले
> देहात्मैक्यं स्वीकृत्य अबाध्यत्वं व्यवस्थापितं भवति। एवं सति
> अनुमानागमाभ्यां व्यवस्थापितः तादृशस्य प्रमाविषयस्य अत्यन्त-अबाध्यत्व-अभाव:
> कथं वार्यते? अतः प्रमाण-प्रमाण-आभास-व्यवस्था जीवेशभेदश्च व्यावहारिकं सत्यं,
> न पारमार्थिकं सत्यं, सर्वं जगन्मिथ्येति।
>
> Anand
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list