[Advaita-l] षड्विधतात्पर्यलिङ्गानि - The six-fold marks of determining the purport

Siva Senani Nori sivasenani at yahoo.com
Tue Jun 21 13:17:51 CDT 2011




From: V Subrahmanian v.subrahmanian at gmail.com wrote:
>
>In Vedanta, in order to determine the main purport of a text, the method of
>applying the six-fold indicatory marks is used.  These marks are:
>
>This method is adapted in Vedanta from the pUrvamImAmsA shAstra.
>
>It is said that this very author or someone else has demonstrated the
>six-fold marks for several Upanishads.  It would be a good study material if
>one can locate such a work.
>
>--------- My post -----------
>  
>Difference between Ratnaprabha and Vedantasara regarding the shadlingas in Chandogya is regarding arthavada, which admits of a large number of sentences. Shadlingas in other Upanishads (Brihadaranyaka, Taittiriya and Mundaka) are found in the commentary of Ramatirtha on the Vendatasara.
>
>
>Extracts from the Vidvanmanoranjani commentary of Ramatirtha on the Vedantasara of Sadananda Yati (Section 30).
>
>
>एवं शाखान्तरेष्वप्युपक्रमोपसंहारादि निरूपणम्। तथा हि बृहदारण्यके तावत्। " आत्मेत्येवोपासीतात्र ह्येते सर्वं एकं भवन्ति " इत्युपक्रमः। " पूर्णमद ” इत्युपसंहारः। “ स एष नेति नेत्यात्मा ” इत्यभ्यासः। " तत्वोपनिषदं पुरुषं पृच्छामि ” इत्यपूर्वत्वं सूचितम्। " अभयं वै जनक प्राप्तो ऽसि ” " ब्रह्मैव सन् ब‌्रह्माप्येति ” इत्यादि फलम्। " तध्दो यो देवानां "
 इत्याद्यर्थवादः। " स यथा दुन्दुभेः ” इत्याद्युपपत्तिः।।
>
>
>तथा तैत्तिरीयके। " ब्रह्मविदाप्नोति परं ” इत्युपक्रमः। “ आनन्दो ब्रहमेति व्यजानात् ” इत्युपसंहारः। “ स यश्यायं ” इत्यभ्यासः। “ यो वेद निहितं गुहायां ” इत्यपूर्वतासूचनम्। “ अभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति ” इति फलश्रुतिः। “ सोऽकामयत ” इत्याद्यर्थवादः। “ असन्नेव स भवति असद्ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः। ” इति “ को
 ह्यो वान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् ” इत्युपपत्तिः। 
>
>
>तथा मुण्डके च। " अथ परा यया तदक्षरमधिगम्यते “ इत्युपक्रमः। " ब्रह्मैवेदममृतं पुरस्तात् " इत्युपसंहारः। " तदेतदक्षरं ब्रह्म " " तमेवैकं जानाथ आत्मानं " इत्याद्यभ्यासः। " न चक्षुषा गृह्यते नापि वाया " इत्यारभ्य " वेदान्तविज्ञानसुनिश्चितार्थाः " इत्यन्तेनापूर्वतासूयनम्। " निरञ्जनः परमं साम्यमुपैति " " ब्रह्म वेद ब्रह्मैव भवति " इति फलश्रुतिः। “ यथा
 सुदीप्तात्पावकाद्विस्फुलिङ्गाः ” इत्याद्यर्थवादः। “ कस्मिन्नु भगवो विज्ञाते सर्वमिदं वीज्ञातं भवति ” इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञारूपा ह्युपपत्तिः। एवमैतरेयादिष्वपि शाखान्तरेषूपक्रमाद्यूहनीयम्। 
> 
>Regards, 
>N. Siva Senani


More information about the Advaita-l mailing list