[Advaita-l] [advaitin] Shankara accepts BhAvarUpa ajnana BSB 4.1.15

V Subrahmanian v.subrahmanian at gmail.com
Thu Aug 31 03:44:39 EDT 2023


On Thu, Aug 31, 2023 at 12:04 PM Sudhanshu Shekhar <sudhanshu.iitk at gmail.com>
wrote:

> Namaste V Subramanian ji.
>
>
> Do you equate DrishTi-srishTi-vAda and ajAti-vAda?
>

Namaste

When we read, for example, the Gaudapada Karika, earlier and this one,
along with Shankara's Bhashyam, we see that it is not possible to
distinguish the two: ajAti-vAda and DSV:

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥
प्रकरणार्थोपसंहारार्थोऽयं श्लोकः — यदा वितथं द्वैतम् आत्मैवैकः परमार्थतः
सन् , तदा इदं निष्पन्नं भवति — सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय
एवेति । तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननम् , बद्धः संसारी
जीवः, साधकः साधनवान्मोक्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः ।
उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता ।
कथमुत्पत्तिप्रलययोरभाव इति, उच्यते — द्वैतस्यासत्त्वात् । ‘यत्र हि द्वैतमिव
भवति’ (बृ. उ. २ । ४ । १४)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V14&hl=%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%B0%20%E0%A4%B9%E0%A4%BF%20%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%AE%E0%A4%BF%E0%A4%B5%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
 ‘य इह नानेव पश्यति’ (क. उ. २ । १ । १०)
<https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V10&hl=%E0%A4%AF%20%E0%A4%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%87%E0%A4%B5%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BF>
 ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)
<https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=7&id=Ch_C07_S25_V02&hl=%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%82%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D>
 ‘ब्रह्मैवेदं सर्वम्’ ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १)
<https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S02_V01&hl=%E0%A4%8F%E0%A4%95%E0%A4%AE%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D>
 ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=%E0%A4%87%E0%A4%A6%E0%A4%82%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%AF%E0%A4%A6%E0%A4%AF%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE>
 इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो
वा स्यात् , नासतः शशविषाणादेः । नाप्यद्वैतमुत्पद्यते प्रलीयते वा । अद्वैतं
च, उत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् । यस्तु पुनर्द्वैतसंव्यवहारः, स
रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया
रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि
रज्जुसर्पस्योत्पत्तिः प्रलयो वा, न चोभयतो वा । तथा
मानसत्वाविशेषाद्द्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो
मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तम् —
द्वैतस्यासत्त्वान्निरोधाद्यभावः परमार्थतेति । यद्येवं द्वैताभावे
शास्त्रव्यापारः, नाद्वैते, विरोधात् ; तथा च सत्यद्वैतस्य वस्तुत्वे
प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् ; न,
रज्जुवत्सर्पादिकल्पनाया निरास्पदत्वेऽनुपपत्तिरिति
प्रत्युक्तमेतत्कथमुज्जीवयसीति, आह — रज्जुरपि सर्पविकल्पस्यास्पदभूता
कल्पितैवेति दृष्टान्तानुपपत्तिः ; न, विकल्पनाक्षये
अविकल्पितस्याविकल्पितत्वादेव सत्त्वोपपत्तेः ; रज्जुसर्पवदसत्त्वमिति चेत् ,
न एकान्तेनाविकल्पितत्वात् अविकल्पितरज्ज्वंशवत्प्राक्सर्पाभावविज्ञानात् ,
विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादेवासत्त्वानुपपत्तिः ।


All that could be said about DSV (EJV) is seen here.  In fact the so-called
SDV too when attempted to be identified in the Prasthana traya bhashya,
will be seen no diff from DSV.  Every aspirant, by default, will have to
pass through DSV/EJV ultimately.  That's the message we get from the
Shankara bhashya.

warm regards


>
> Regards.
>


More information about the Advaita-l mailing list